|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.92. अध्यायः 092
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति धर्माधर्मयोः समृद्धसमृद्धिलक्षणोदर्ककारणत्वाभिधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-92-0x(2005)(19797)
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम।
तथाऽस्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥ 3-92-1(19798)
परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ॥ 3-92-2(19799)
लोमश उवाच। 3-92-3x(2006)
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ॥ 3-92-3(19800)
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ 3-92-4(19801)
`यत्र धर्मेण वर्धन्ते राजानो राजसत्तम।
सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते' ॥ 3-92-5(19802)
मया हि दृष्टा दैतेया दानवाश्च महीपते।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥ 3-92-6(19803)
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥ 3-92-7(19804)
तीर्तानि देवा विविशुर्नाविशन्भारतासुराः।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥ 3-92-8(19805)
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत।
क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत् ॥ 3-92-9(19806)
तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान्।
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ॥ 3-92-10(19807)
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥ 3-92-11(19808)
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥ 3-92-12(19809)
तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान्।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥
मानाभिभूतानचिराद्विनाशः समपद्यत ॥ 3-92-13(19810)
निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः।
`अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः' ॥ 3-92-14(19811)
देवास्तु सागरांश्चैव सरितश्च सरांसि च।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ॥ 3-92-15(19812)
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥ 3-92-16(19813)
एवमादानवन्तश् निरादानाश्च सर्वशः।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥ 3-92-17(19814)
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः।
पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ॥ 3-92-18(19815)
यथैव हि नृगो राजा शिविरौशीनरो यथा।
भगीरयो वसुमना गयः पूरुः पुरूरवाः ॥ 3-92-19(19816)
चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते।
तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम् ॥ 3-92-20(19817)
अलभन्त यशः पुण्यं धनानि च विशांपते।
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ॥ 3-92-21(19818)
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः।
मुचुकुन्दोऽथ मांधाता मरुत्तश्च महीपतिः ॥ 3-92-22(19819)
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ॥ 3-92-23(19820)
धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः।
नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ॥ 3-92-24(19821)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-92-2 परान् शत्रून् ॥ 3-92-8 विविशुः स्नानार्थमिति शेषः ॥ 3-92-9 अह्नीः अकार्ये प्रवृत्तिः। ततः अलज्जा लज्जा निन्द्यतादोषाद्भयं तस्य नाशः । 3-92-10 नचिरात् शीघ्रमेव ॥ 3-92-17 आदानवन्तः आर्जवादिनियमग्रहणवन्तः। निरादानाः अप्रतिबद्धाः। सर्वशः देवादिभिरपि। एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः इति ध. पाठः ॥ 3-92-18 वेत्स्यसिलप्स्यसे ॥ 3-92-24 धार्तराष्ट्रस्तु दर्पेण इति क. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|